दुर्गाद्वात्रिंशन्नामावलिः
दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी ।
दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ॥ १ ॥
दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा ।
दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला ॥ २ ॥
दुर्गमादुर्गमालोका दुर्गमात्मस्वरूपिणी ।
दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ॥ ३ ॥
दुर्गमज्ञानसंस्थानादुर्गमध्यानभासिनी ।
दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी ॥ ४ ॥
दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी ।
दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्वरी ॥ ५ ॥
दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारणि ।
नामावलिमिमां यस्तु दुर्गायाः सुधी मानवः ॥ ६ ॥
पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः ॥
॥ इति दुर्गाद्वात्रिंशन्नामावलिः समाप्ता ॥