तन्त्रोक्त भैरव कवचम्
उक्तं च भैरवतन्त्रे ।
महादेव उवाच -
प्रीयतां भैरवो देवो नमो वै भैरवाय च ।
देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १ ॥
म्रियन्ते साधका येन विना श्मशानभूमिषु ।
रणेषु चाति घोरेषु महामृत्युभयेषु च ॥ २ ॥
शृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु ।
देव्युवाच -
कथयामि शृणु प्राज्ञ बटुककवचं शुभम् ॥ ३ ॥
गोपनीयं प्रयत्नेन मातृकाजारजो यथा ।
ॐ अस्य श्री बटुकभैरवकवचस्य
आनन्दभैरव ऋषिस्त्रिष्टुप्छन्दः
श्रीबटुकभैरवो देवता बं बीजं ह्रीं शक्तिः
ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
|| कवचम् ||
ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ॥ ४ ॥
पातु मां बटुको देवो भैरवः सर्वकर्मसु ।
पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ ५ ॥
आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ।
नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ॥ ६ ॥
वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ।
भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ॥ ७ ॥
संहार भैरवः पायादीशान्यां च महेश्वरः ।
ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ॥ ८ ॥
सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ।
वामदेवो वनान्ते च वने घोरस्तथावतु ॥ ९ ॥
जले तत्पुरुषः पातु स्थले ईशान एव च ।
डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ॥ १० ॥
हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः ।
पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ॥ ११ ॥
मालिनी पुत्रकः पातु पशूनश्वान् गजांस्तथा।
महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ॥ १२ ॥
वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा ।
एतत्कवचमीशान तव स्नेहात्प्रकाशितम् ॥ १३ ॥
नाख्येयं नरलोकेषु सारभूतं सुरप्रियम् ।
यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४ ॥
न देयं परिशिष्येभ्यो कृपणेभ्यश्च शङ्कर ।
यो ददाति निषिद्धेभ्यः सर्वभ्रष्टो भवेत्किल ॥ १५ ॥
अनेन कवचेनैव रक्षां कृत्वा विचक्षणः ।
विचरन्यत्र कुत्रापि न विघ्नैः परिभूयते ॥ १६ ॥
मन्त्रेण रक्षते योगी कवचं रक्षकं यतः ।
तस्मात्सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ १७ ॥
भूर्जे रम्भात्वचि वापि लिखित्वा विधिवत्प्रभो ।
कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ १८ ॥
धारयेत्पाठायेद्वापि सम्पठेद्वापि नित्यशः ।
सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा ॥ १९ ॥
सततं पठ्यते यत्र तत्र भैरवसंस्थितिः ।
न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम् ॥ २० ॥
नमो भैरवदेवाय सर्वभूताय वै नमः ।
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ २१ ॥
इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे
उपासनास्तवके श्रीबटुकभैरवोपासनाध्याये भैरव तन्त्रे देवीरहस्योक्तं श्रीबटुकभैरवकवचनिरूपणं सम्पूर्णम् ॥
