Skip to content Skip to footer

श्री कामाख्या ध्यानम् स्तोत्रम् च

॥ ध्यानम् ॥ रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलकर्णा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रशस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥ अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि पृथुतुङ्गस्तनयुग्मा मनोज्ञा शिशुरविसमवस्त्रा सर्वकामेश्वरी सा​​ ॥ २॥ विपुलविभवदात्री स्मेरवक्त्रा सुकेशी ललितनखरदंता सामिचन्द्रावनम्रा । मनसिज-दृषदिस्था योनिमुद्रालसन्ती पवनगमनशक्ता संश्रुतस्थानभागा । चिन्त्या चैवं विद्युदग्निप्रकाशा धर्मार्थाद्यं साधकैर्वाञ्छितार्थैः ॥ ३॥ ॥ स्तोत्रम् ॥ जय कामेशि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ १ ॥ विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने । भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ २ ॥ मायाजये जये जम्भे भूताक्षि क्षुभितक्षये । महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ ३ ॥ भीमाक्षि भीषणे देवि सर्वभूतक्षयङ्करि । करालि विकरालि च कामेश्वरि नमोऽस्तु ते ॥ ४ ॥ कालि करालि विक्रान्ते कामेश्वरि हरप्रिये । सर्वशस्त्रभृते देवि कामेश्वरि नमोऽस्तु ते ॥ ५ ॥ कामरूपप्रदीपे च नीलकूटनिवासिनि । निशुम्भ-शुम्भ-मथनि कामेश्वरि नमोऽस्तु ते ॥ ६ ॥ कामाख्ये कामरूपस्थे कामेश्वरि हरप्रिये । कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ ७ ॥ रुधिरासवपानाढ्यवक्त्रे त्रिभुवनेश्वरि । महिषासुर-वधे देवि कामेश्वरि नमोऽस्तु ते ॥ ८ ॥ छाग-तुष्टे महाभीमे कामाख्ये सुर-वन्दिते । जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ ९ ॥ भ्रष्ट-राज्यो यदा राजा नवम्यां नियतः शुचिः । अष्टम्याञ्च चतुर्दश्यामुपवासी नरोत्तमः ॥ १० ॥ संवत्सरेण लभते राज्यं निष्कण्टकं पुनः । य इदंशृणुयाद् भक्त्या तव देवि समुद्भवम् ॥ ११ ॥ सर्व-पाप-विनिर्मुक्तः परं निर्वाणमृच्छति । कामेश्वरि देवि सुरासुरप्रिये प्रकाशिताम्भोज-नियन्त्रिते नमः । सुरारि-ब्रह्म-विघ्न-पाटनोत्सुके त्रयीमये देवि नमामि तुभ्यम् ॥ १२ ॥ सितासिते रक्त-पिशङ्ग-विग्रहे रूपाणि यस्याः प्रतिपादितानि। करे कपाले च विकल्पितानि शुभाशुभानामपि तां नमामि ॥ १३ ॥ कामरूप-समुद्भूते कामपीठा-वतंसके । विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ १४ ॥ अव्यक्त-विग्रहे शान्ते सन्तते कामरूपिणि । कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥ १५ ॥ या सुषुम्नान्तरालस्था चिन्त्यते ज्योतिरूपिणि । प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते ॥ १६ ॥ दंष्ट्रा-कराल-वदने मुण्डमालोपशोभिते । सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ १७ ॥ चामुण्डे च महाकालि कालि कपाल-हारिणि । पाश-हस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते ॥ १८ ॥ चामुण्डे कुल-मालास्ये तीक्ष्णदंष्ष्ट्रे महाबले । शवयाना-स्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ १९ ॥ इति श्री कामाख्या स्तोत्रम् ।