श्री बटुक भैरव अष्टोत्तरशतनामावलि:
ॐ भैरवाय नमः ।
ॐ भूतनाथाय नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतभावनाय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षेत्रपालाय नमः ।
ॐ क्षेत्रदाय नमः ।
ॐ क्षत्रियाय नमः ।
ॐ विराजे नमः ॥ ९ ॥
ॐ श्मशानवासिने नमः ।
ॐ मांसाशिने नमः ।
ॐ खर्पराशिने नमः ।
ॐ स्मरान्तकाय नमः ।
ॐ रक्तपाय नमः ।
ॐ पानपाय नमः ।
ॐ सिद्धाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सिद्धसेविताय नमः ॥ १८ ॥
ॐ कङ्कालाय नमः ।
ॐ कालशमनाय नमः ।
ॐ कलाकाष्ठातनवे नमः ।
ॐ कवये नमः ।
ॐ त्रिनेत्राय नमः ।
ॐ बहुनेत्राय नमः ।
ॐ पिङ्गललोचनाय नमः ।
ॐ शूलपाणये नमः ।
ॐ खड्गपाणये नमः ॥ २७ ॥
ॐ कपालिने नमः ।
ॐ धूम्रलोचनाय नमः ।
ॐ अभीरवे नमः ।
ॐ भैरवीनाथाय नमः ।
ॐ भूतपाय नमः ।
ॐ योगिनीपतये नमः ।
ॐ धनदाय नमः ।
ॐ अधनहारिणे नमः ।
ॐ धनवते नमः ॥ ३६ ॥
ॐ प्रतिभानवते नमः ।
ॐ नागहाराय नमः ।
ॐ नागपाशाय नमः ।
ॐ व्योमकेशाय नमः ।
ॐ कपालभृते नमः ।
ॐ कालाय नमः ।
ॐ कपालमालिने नमः ।
ॐ कमनीयाय नमः ।
ॐ कलानिधये नमः ॥ ४५ ॥
ॐ त्रिलोचनाय नमः ।
ॐ ज्वलन्नेत्राय नमः ।
ॐ त्रिशिखिने नमः ।
ॐ त्रिलोकपाय नमः ।
ॐ त्रिनेत्रयतनयाय नमः ।
ॐ डिम्भाय नमः ।
ॐ शान्ताय नमः ।
ॐ शान्तजनप्रियाय नमः ।
ॐ बटुकाय नमः ॥ ५४ ॥
ॐ बहुवेशाय नमः ।
ॐ खट्वाङ्गवरधारकाय नमः ।
ॐ भूताध्यक्षाय नमः ।
ॐ पशुपतये नमः ।
ॐ भिक्षुकाय नमः ।
ॐ परिचारकाय नमः ।
ॐ धूर्ताय नमः ।
ॐ दिगम्बराय नमः ।
ॐ शूराय नमः ॥ ६३ ॥
ॐ हरिणाय नमः ।
ॐ पाण्डुलोचनाय नमः ।
ॐ प्रशान्ताय नमः ।
ॐ शान्तिदाय नमः ।
ॐ सिद्धाय नमः ।
ॐ शङ्करप्रियबान्धवाय नमः ।
ॐ अष्टमूर्तये नमः ।
ॐ निधीशाय नमः ।
ॐ ज्ञानचक्षुषे नमः॥ ७२ ॥
ॐ तपोमयाय नमः ।
ॐ अष्टाधाराय नमः ।
ॐ षडाधाराय नमः ।
ॐ सर्पयुक्ताय नमः ।
ॐ शिखीसखाय नमः ।
ॐ भूधराय नमः ।
ॐ भूधराधीशाय नमः ।
ॐ भूपतये नमः ।
ॐ भूधरात्मकाय नमः ॥ ८१ ॥
ॐ कङ्कालधारिणे नमः ।
ॐ मुण्डिने नमः ।
ॐ नागयज्ञोपवीतकाय नमः ।
ॐ जृम्भणाय नमः ।
ॐ मोहनाय नमः ।
ॐ स्तम्भिने नमः ।
ॐ मारणाय नमः ।
ॐ क्षोभणाय नमः ।
ॐ शुद्धाय नमः॥ ९० ॥
ॐ नीलाञ्जनप्रख्याय नमः ।
ॐ दैत्यघ्ने नमः ।
ॐ मुण्डभूषिताय नमः ।
ॐ बलिभुजे नमः ।
ॐ बलिभुङ्नाथाय नमः ।
ॐ बालाय नमः ।
ॐ अबालपराक्रमाय नमः ।
ॐ सर्वापत्तारणाय नमः ।
ॐ दुर्गाय नमः ॥ ९९ ॥
ॐ दुष्टभूतनिषेविताय नमः ।
ॐ कामिने नमः ।
ॐ कलानिधये नमः ।
ॐ कान्ताय नमः ।
ॐ कामिनीवशकृते नमः ।
ॐ वशिने नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ॐ वैद्याय नमः ।
ॐ प्रभविष्णवे नमः॥ १०८ ॥
