श्री कामाख्या ध्यानम् स्तोत्रम् च
॥ ध्यानम् ॥
रविशशियुतकर्णा कुंकुमापीतवर्णा
मणिकनकविचित्रा लोलकर्णा त्रिनेत्रा ।
अभयवरदहस्ता साक्षसूत्रप्रशस्ता
प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥
अरुणकमलसंस्था रक्तपद्मासनस्था
नवतरुणशरीरा मुक्तकेशी सुहारा ।
शवहृदि पृथुतुङ्गस्तनयुग्मा मनोज्ञा
शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥
विपुलविभवदात्री स्मेरवक्त्रा सुकेशी
ललितनखरदंता सामिचन्द्रावनम्रा ।
मनसिज-दृषदिस्था योनिमुद्रालसन्ती
पवनगमनशक्ता संश्रुतस्थानभागा ।
चिन्त्या चैवं विद्युदग्निप्रकाशा
धर्मार्थाद्यं साधकैर्वाञ्छितार्थैः ॥ ३॥
॥ स्तोत्रम् ॥
जय कामेशि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ १ ॥
विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ।
भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ २ ॥
मायाजये जये जम्भे भूताक्षि क्षुभितक्षये ।
महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ ३ ॥
भीमाक्षि भीषणे देवि सर्वभूतक्षयङ्करि ।
करालि विकरालि च कामेश्वरि नमोऽस्तु ते ॥ ४ ॥
कालि करालि विक्रान्ते कामेश्वरि हरप्रिये ।
सर्वशस्त्रभृते देवि कामेश्वरि नमोऽस्तु ते ॥ ५ ॥
कामरूपप्रदीपे च नीलकूटनिवासिनि ।
निशुम्भ-शुम्भ-मथनि कामेश्वरि नमोऽस्तु ते ॥ ६ ॥
कामाख्ये कामरूपस्थे कामेश्वरि हरप्रिये ।
कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ ७ ॥
रुधिरासवपानाढ्यवक्त्रे त्रिभुवनेश्वरि ।
महिषासुर-वधे देवि कामेश्वरि नमोऽस्तु ते ॥ ८ ॥
छाग-तुष्टे महाभीमे कामाख्ये सुर-वन्दिते ।
जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ ९ ॥
भ्रष्ट-राज्यो यदा राजा नवम्यां नियतः शुचिः ।
अष्टम्याञ्च चतुर्दश्यामुपवासी नरोत्तमः ॥ १० ॥
संवत्सरेण लभते राज्यं निष्कण्टकं पुनः ।
य इदंशृणुयाद् भक्त्या तव देवि समुद्भवम् ॥ ११ ॥
सर्व-पाप-विनिर्मुक्तः परं निर्वाणमृच्छति ।
कामेश्वरि देवि सुरासुरप्रिये प्रकाशिताम्भोज-नियन्त्रिते नमः ।
सुरारि-ब्रह्म-विघ्न-पाटनोत्सुके त्रयीमये देवि नमामि तुभ्यम् ॥ १२ ॥
सितासिते रक्त-पिशङ्ग-विग्रहे रूपाणि यस्याः प्रतिपादितानि।
करे कपाले च विकल्पितानि शुभाशुभानामपि तां नमामि ॥ १३ ॥
कामरूप-समुद्भूते कामपीठा-वतंसके ।
विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ १४ ॥
अव्यक्त-विग्रहे शान्ते सन्तते कामरूपिणि ।
कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥ १५ ॥
या सुषुम्नान्तरालस्था चिन्त्यते ज्योतिरूपिणि ।
प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते ॥ १६ ॥
दंष्ट्रा-कराल-वदने मुण्डमालोपशोभिते ।
सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ १७ ॥
चामुण्डे च महाकालि कालि कपाल-हारिणि ।
पाश-हस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते ॥ १८ ॥
चामुण्डे कुल-मालास्ये तीक्ष्णदंष्ष्ट्रे महाबले ।
शवयाना-स्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ १९ ॥
इति श्री कामाख्या स्तोत्रम् ।
