Skip to content Skip to footer

श्री बटुक भैरव अष्टोत्तरशतनामावलि:

ॐ भैरवाय नमः । ॐ भूतनाथाय नमः । ॐ भूतात्मने नमः । ॐ भूतभावनाय नमः । ॐ क्षेत्रज्ञाय नमः । ॐ क्षेत्रपालाय नमः । ॐ क्षेत्रदाय नमः । ॐ क्षत्रियाय नमः । ॐ विराजे नमः ॥ ९ ॥ ॐ श्मशानवासिने नमः । ॐ मांसाशिने नमः । ॐ खर्पराशिने नमः । ॐ स्मरान्तकाय नमः । ॐ रक्तपाय नमः । ॐ पानपाय नमः । ॐ सिद्धाय नमः । ॐ सिद्धिदाय नमः । ॐ सिद्धसेविताय नमः ॥ १८ ॥ ॐ कङ्कालाय नमः । ॐ कालशमनाय नमः । ॐ कलाकाष्ठातनवे नमः । ॐ कवये नमः । ॐ त्रिनेत्राय नमः । ॐ बहुनेत्राय नमः । ॐ पिङ्गललोचनाय नमः । ॐ शूलपाणये नमः । ॐ खड्गपाणये नमः ॥ २७ ॥ ॐ कपालिने नमः । ॐ धूम्रलोचनाय नमः । ॐ अभीरवे नमः । ॐ भैरवीनाथाय नमः । ॐ भूतपाय नमः । ॐ योगिनीपतये नमः । ॐ धनदाय नमः । ॐ अधनहारिणे नमः । ॐ धनवते नमः ॥ ३६ ॥ ॐ प्रतिभानवते नमः । ॐ नागहाराय नमः । ॐ नागपाशाय नमः । ॐ व्योमकेशाय नमः । ॐ कपालभृते नमः । ॐ कालाय नमः । ॐ कपालमालिने नमः । ॐ कमनीयाय नमः । ॐ कलानिधये नमः ॥ ४५ ॥ ॐ त्रिलोचनाय नमः । ॐ ज्वलन्नेत्राय नमः । ॐ त्रिशिखिने नमः । ॐ त्रिलोकपाय नमः । ॐ त्रिनेत्रयतनयाय नमः । ॐ डिम्भाय नमः । ॐ शान्ताय नमः । ॐ शान्तजनप्रियाय नमः । ॐ बटुकाय नमः ॥ ५४ ॥ ॐ बहुवेशाय नमः । ॐ खट्वाङ्गवरधारकाय नमः । ॐ भूताध्यक्षाय नमः । ॐ पशुपतये नमः । ॐ भिक्षुकाय नमः । ॐ परिचारकाय नमः । ॐ धूर्ताय नमः । ॐ दिगम्बराय नमः । ॐ शूराय नमः ॥ ६३ ॥ ॐ हरिणाय नमः । ॐ पाण्डुलोचनाय नमः । ॐ प्रशान्ताय नमः । ॐ शान्तिदाय नमः । ॐ सिद्धाय नमः । ॐ शङ्करप्रियबान्धवाय नमः । ॐ अष्टमूर्तये नमः । ॐ निधीशाय नमः । ॐ ज्ञानचक्षुषे नमः॥ ७२ ॥ ॐ तपोमयाय नमः । ॐ अष्टाधाराय नमः । ॐ षडाधाराय नमः । ॐ सर्पयुक्ताय नमः । ॐ शिखीसखाय नमः । ॐ भूधराय नमः । ॐ भूधराधीशाय नमः । ॐ भूपतये नमः । ॐ भूधरात्मकाय नमः ॥ ८१ ॥ ॐ कङ्कालधारिणे नमः । ॐ मुण्डिने नमः । ॐ नागयज्ञोपवीतकाय नमः । ॐ जृम्भणाय नमः । ॐ मोहनाय नमः । ॐ स्तम्भिने नमः । ॐ मारणाय नमः । ॐ क्षोभणाय नमः । ॐ शुद्धाय नमः॥ ९० ॥ ॐ नीलाञ्जनप्रख्याय नमः । ॐ दैत्यघ्ने नमः । ॐ मुण्डभूषिताय नमः । ॐ बलिभुजे नमः । ॐ बलिभुङ्नाथाय नमः । ॐ बालाय नमः । ॐ अबालपराक्रमाय नमः । ॐ सर्वापत्तारणाय नमः । ॐ दुर्गाय नमः ॥ ९९ ॥ ॐ दुष्टभूतनिषेविताय नमः । ॐ कामिने नमः । ॐ कलानिधये नमः । ॐ कान्ताय नमः । ॐ कामिनीवशकृते नमः । ॐ वशिने नमः । ॐ सर्वसिद्धिप्रदाय नमः । ॐ वैद्याय नमः । ॐ प्रभविष्णवे नमः॥ १०८ ॥