Skip to content Skip to footer

तारा प्रत्यङ्गिराकवचम्

ॐ प्रत्यङ्गिरायै नमः । ईश्वर उवाच - ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा । हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १॥ शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः । धारिता साधकेन्द्रेण सर्वशत्रुनिवारिणी ॥ २॥ ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रून् स्तम्भय स्तम्भय ॥ ३॥ ॐ क्षोभिणी स्त्रें स्त्रें मम शत्रून् क्षोभय क्षोभय ॥ ४॥ ॐ मोहिनी स्त्रें स्त्रें मम शत्रून् मोहय मोहय ॥ ५॥ ॐ जृम्भिणी स्त्रें स्त्रें मम शत्रून् जृम्भय जृम्भय ॥ ६॥ ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रून् भ्रामय भ्रामय ॥ ७॥ ॐ रौद्री स्त्रें स्त्रें मम शत्रून् सन्तापय सन्तापय ॥ ८॥ ॐ संहारिणी स्त्रें स्त्रें मम शत्रून् संहारय संहारय ॥ ९॥ ॐ तारिणी स्त्रें स्त्रें सर्वपद्भ्यः सर्वभूतेभ्यः सर्वत्र रक्ष रक्ष मां स्वाहा ॥ १०॥ य इमां धारयेत् विद्यां त्रिसन्ध्यं वापि यः पठेत् । स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छ्त्रून् न संशयः ॥ ११॥ रणे राजकुले दुर्गे महाभये विपत्तिषु । विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरम् ॥ १२॥ अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी । मन्त्राक्षरमपि ध्यायन् चिन्तयेत् नीलसरस्वतीम् । अचिरे नैव तस्यासन् करस्था सर्वसिद्धयः ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १३॥ इमं स्तवं धीयानो नित्यं धारयेन्नरः । सर्वतः सुखमाप्नोति सर्वत्रजयमाप्नुयात् ॥ १४॥ नक्कापि भयमाप्नोति सर्वत्रसुखमाप्नुयात् ॥ १५॥ इति रुद्रयामले श्रीमदुग्रतराया प्रत्यङ्गिरा कवचं समाप्तम् ॥ १०८ ॥