Skip to content Skip to footer

तन्त्रोक्त भैरव कवचम्

उक्तं च भैरवतन्त्रे । महादेव उवाच - प्रीयतां भैरवो देवो नमो वै भैरवाय च । देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १ ॥ म्रियन्ते साधका येन विना श्मशानभूमिषु । रणेषु चाति घोरेषु महामृत्युभयेषु च ॥ २ ॥ श‍ृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु । देव्युवाच - कथयामि श‍ृणु प्राज्ञ बटुककवचं शुभम् ॥ ३ ॥ गोपनीयं प्रयत्नेन मातृकाजारजो यथा । ॐ अस्य श्री बटुकभैरवकवचस्य आनन्दभैरव ऋषिस्त्रिष्टुप्छन्दः श्रीबटुकभैरवो देवता बं बीजं ह्रीं शक्तिः ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः । || कवचम् || ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ​​॥ ४ ॥ पातु मां बटुको देवो भैरवः सर्वकर्मसु । पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ ५ ॥ आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः । नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ॥ ६ ॥ वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः । भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ॥ ७ ॥ संहार भैरवः पायादीशान्यां च महेश्वरः । ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ॥ ८ ॥ सद्योजातस्तु मां पायात् सर्वतो देवसेवितः । वामदेवो वनान्ते च वने घोरस्तथावतु ॥ ९ ॥ जले तत्पुरुषः पातु स्थले ईशान एव च । डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ॥ १० ॥ हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः । पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ॥ ११ ॥ मालिनी पुत्रकः पातु पशूनश्वान् गजांस्तथा। महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ॥ १२ ॥ वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा । एतत्कवचमीशान तव स्नेहात्प्रकाशितम् ॥ १३ ॥ नाख्येयं नरलोकेषु सारभूतं सुरप्रियम् । यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४ ॥ न देयं परिशिष्येभ्यो कृपणेभ्यश्च शङ्कर । यो ददाति निषिद्धेभ्यः सर्वभ्रष्टो भवेत्किल ॥ १५ ॥ अनेन कवचेनैव रक्षां कृत्वा विचक्षणः । विचरन्यत्र कुत्रापि न विघ्नैः परिभूयते ॥ १६ ॥ मन्त्रेण रक्षते योगी कवचं रक्षकं यतः । तस्मात्सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ १७ ॥ भूर्जे रम्भात्वचि वापि लिखित्वा विधिवत्प्रभो । कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ १८ ॥ धारयेत्पाठायेद्वापि सम्पठेद्वापि नित्यशः । सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा ॥ १९ ॥ सततं पठ्यते यत्र तत्र भैरवसंस्थितिः । न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम् ॥ २० ॥ नमो भैरवदेवाय सर्वभूताय वै नमः । नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ २१ ॥ इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे उपासनास्तवके श्रीबटुकभैरवोपासनाध्याये भैरव तन्त्रे देवीरहस्योक्तं श्रीबटुकभैरवकवचनिरूपणं सम्पूर्णम् ॥