Kamakhya Bhairava Upasaka Foundation
Donate

श्री बटुक भैरव ब्रह्म कवचम्

॥ श्री गणेशाय नमः ॥ ॥ श्री उमामहेश्वराभ्यां नमः ॥ ॥ श्री गुरवे नमः ॥ ॥ श्री भैरवाय नमः ॥ श्री देव्युवाच । भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् । भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥ प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि । सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥ इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः । उवाच वचनं तत्र देवदेवो महेश्वरः ॥ ३॥ ईश्वर उवाच । बाटुकं कवचं दिव्यं श‍ृणु मत्प्राणवल्लभे । चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥ तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् । शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥ आपदुद्धारणो देवो भैरवः परिकीर्तितः । प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥ प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् । बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥ आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् । कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥ बटुकाय महेशानि स्तम्भने परिकीर्तितम् । लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥ द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि । ॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ॥ ( इसका जप कवच से पहले और बाद में ११ या २१ बार करें ) ॐ अस्य श्री बटुक भैरव ब्रह्म कवचस्य भैरव ऋषिः । अनुष्टुप् छन्दः । श्री बटुक भैरवो देवता । मम श्री बटुक भैरव प्रसाद सिद्धयर्थे जपे विनियोगः ॥ ॥ कवचम् ॥ अथ पाठः । ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥ बटुकाय पातु नाभौ च आपदुद्धारणाय च ॥ कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥ सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥ षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥ ॐ ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ॥ ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥ ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः । गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥ ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा । ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥ ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका । आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥ चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः । उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥ नाभिदेशे कपाली च लिङ्गे भीषणभैरवः । संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥ बाहुयुग्मं सदा पातु भैरवो मम केवलम् । हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥ प्राणापानौ समानं च उदानं व्यानमेव च । रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥ प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये । इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥ चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥ सदानन्दमयो भूत्वा लभते परमं पदम् । यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥ कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् । जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥ कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् । भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥ कामतुल्यस्तु नारीणां रिपूणां च यमोपमः । तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥ तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः । यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥ इदं कवचमज्ञात्वा यो जपेद्बटुकं नरः । न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥ मन्वन्तरत्रयं स्थित्वा तिर्यग्योनिषु जायते । इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥ शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः । देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ ३०॥ कार्पण्यरहितायालं बटुकभक्तिरताय च । योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥ आयुर्विद्या यशो धर्मं बलं चैव न संशयः । इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥ ॥ इति श्री रुद्रयामलोक्तं श्री बटुक भैरव ब्रह्मकवचं सम्पूर्णम् ॥