Kamakhya Bhairava Upasaka Foundation
Donate

उग्रताराकवचं

॥ ईश्वर उवाच ॥ कोटितन्त्रेषु गोप्या हि विद्यातिभयमोचिनी । दिव्यं हि कवचं तस्याः शृणुष्व सर्वकामदम् ॥१॥ अस्य ताराकवचस्य अक्षोभ्य ऋषिः । त्रिष्टुप् छन्दः । भगवती तारा देवता । सर्वमन्त्र-सिद्धिसमृद्धये जपे विनियोगः ॥ प्रणवो मे शिरः पातु ब्रह्मरूपा महेश्वरी । ह्रींकारः पातु ललाटे बीजरूपा महेश्वरी ॥ २॥ स्त्रींकारः पातु वदने लज्जारूपा महेश्वरी । हूंकारः पातु हृदये भवानीरूपशक्तिधृक् ॥ ३॥ फट्कारः पातु सर्वाङ्गे सर्वसिद्धिफलप्रदा । खर्वा मां पातु देवेशी गण्डयुग्मे भयापहा ॥४॥ लम्बोदरी सदा स्कन्धयुग्मे पातु महेश्वरी । व्याघ्रचर्मावृता कट्यां पातु देवी शिवप्रिया ॥५॥ पीनोन्नतस्तनी पातु पार्श्वयुग्मे महेश्वरी । रक्तवर्तुलनेत्रा च कटिदेशे सदाऽवतु ॥६॥ ललजिह्वा सदा पातु नाभौ मां भुवनेश्वरी । करालास्या सदा पातु लिङ्गे देवी हरप्रिया ॥७॥ पिङ्गोग्रैकजटा पातु जङ्घायां विघ्ननाशिनी । प्रेतखर्परभृद्देवी जानुचक्रे महेश्वरी ॥८॥ नीलवर्णा सदा पातु जानुनी सर्वदा मम । नागकुण्डलधर्त्री च पातु पादयुगे ततः ॥९॥ नागहारधरा देवी सर्वाङ्गं पातु सर्वदा । नागकङ्कणधरा देवी पातु प्रान्तरदेशतः ॥१०॥ चतुर्भुजा सदा पातु गमने शत्रुनाशिनी । खड्गहस्ता महादेवी पातु माम् विजयप्रदा ॥११॥ नीलाम्बरधरा देवी पातु मां विघ्ननाशिनी । कर्त्रिहस्ता सदा पातु विवादे शत्रुमध्यतः ॥१२॥ ब्रह्मरूपधरा देवी सङ्ग्रामे पातु सर्वदा । नागनूपुरधरा देवी भोजने पातु सर्वदा ॥१३॥ शवकर्णा महादेवी शयने पातु सर्वदा । वीरासनधरा देवी निद्रायां पातु सर्वदा ॥१४॥ धनुर्बाणधरा देवी पातु मां विघ्नसङ्कुले । नागाञ्चितकटी पातु देवी मां सर्वकर्मसु ॥१५॥ छिन्नमुण्डधरा देवी कानने पातु सर्वदा । चितामध्यस्थिता देवी मारणे पातु सर्वदा ॥१६॥ द्वीपिचर्मधरा देवी पुत्रदारधनादिषु । अलङ्कारान्विता देवी पातु मां हरवल्लभा ॥१७॥ रक्ष रक्ष नदीकुञ्जे हूं हूं फट् सुसमन्विते । बीजरूपा महादेवी पर्वते पातु सर्वदा ॥१८॥ मणिधरि-वज्रिणी देवी महाप्रतिसरे तथा । रक्ष रक्ष सदा हूं हूं ॐ ह्रीं स्वाहा महेश्वरी ॥१९॥ पुष्पकेतुरजार्हेति कानने पातु माम् सदा । ॐ ह्रीं वज्रपुष्पं हुं फट् प्रान्तरे सर्वकामदा ॥२०॥ ॐ पुष्पे पुष्पे महापुष्पे पातु पुत्रान्महेश्वरी । हूं स्वाहा शक्तिसंयुक्ता दारान् रक्षतु सर्वदा ॥२१॥ ॐ आं हूं फट् स्वाहा महेशानी पातु द्यूते हरप्रिया । ॐ ह्रीं सर्वविघ्नोत्सारिणी विघ्नान्मां सदाऽवतु ॥२२॥ ॐ पवित्रवज्रभूमे हूं फट् स्वाहा समन्विता । पूरिका पातु मां देवी सर्वविघ्नविनाशिनी ॥२३॥ ॐ आः सुरेखे वज्ररेखे हुंफट्स्वाहासमन्विता । पाताले पातु सा देवी लाकिनी नामसंज्ञिका ॥२४॥ ह्रींकारी पातु मां पूर्वे शक्तिरूपा महेश्वरी । स्त्रींकारी दक्षिणे पातु वधूरूपा महेश्वरी ॥२४॥ हूंस्वरूपा महादेवी पातु मां क्रोधरूपिणी । फ-स्वरूपा महामाया पश्चिमे पातु सर्वदा ॥२५॥ उत्तरे पातु मां देवी ट-स्वरूपा हरप्रिया । मध्ये मां पातु देवेशी हूंस्वरूपा नागात्मिका ॥२६॥ नीलवर्णा सदा पातु सर्वत्र वाग्भवी सदा । भवानी पातु भवने सर्वैश्वर्यप्रदायिनी ॥२७॥ विद्यादानरता देवी पातु वक्त्रे सरस्वती । शास्त्रे वादे च सङ्ग्रामे जले च विषमे गिरौ ॥२९॥ भीमरूपा सदा पातु श्मशाने भयनाशिनी । भूतप्रेतालये घोरे दुर्गमा भीषणावतु ॥३०॥ पातु नित्यं महेशानी सर्वत्र शिवदूतिका । कवचस्य च माहात्म्यं वै नाहं वर्षशतैरपि ॥३१॥ शक्नोमि गदितुं देवि भवेत्तस्य फलं च यत् । पुत्रदारेषु बन्धूनां सर्वदेशे च सर्वदा ॥३२॥ न विद्यते भयं तस्य नृपपूज्यो भवेच्च सः । शुचिर्भूत्वाऽशुचिर्वापि कवचं सर्वकामदम् ॥३३॥ प्रपठन् वा स्मरन्मर्त्यो दुःखशोकविवर्जितः । सर्वशास्त्रे महेशानि कविराड् भवति ध्रुवम् ॥३४॥ सर्ववागीश्वरो मर्त्यो लोकवश्यो धनेश्वरः । रणे द्यूते विवादे च जयस्तत्र भवेद् ध्रुवम् ॥३५॥ पुत्रपौत्रान्वितो मर्त्यो विलासी सर्वयोषिताम् । शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा ॥३६॥ गर्वी खर्वी भवत्येव वादी स्खलति दर्शनात् । मृत्युश्च वश्यतां याति दासास्तस्यावनीभुजः ॥३७॥ प्रसङ्गात्कथितं सर्वं कवचं सर्वकामदम् । प्रपठन्वा स्मरन्मर्त्यः शापानुग्रहणे क्षमः ॥३८॥ आनन्दवृन्दसिन्धूनामधिपः कविराड् भवेत् । सर्ववागिश्वरो मर्त्यो लोकवश्यः सदा सुखी ॥३९॥ गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् । तत्रापि कवचं देवि दुर्लभं भुवनत्रये ॥४०॥ गुरुर्देवो हरः साक्षात्तत्पत्नी तु हरप्रिया । अभेदेन भजेद्यस्तु तस्य सिद्धिदूरतः ॥४१॥ मन्त्राचारा महेशानि कथिताः पूर्ववत्प्रिये । नाभौ ज्योतिस्तथा रक्तं हृदयोपरि चिन्तयेत् ॥४२॥ ऐश्वर्यं सुकवित्वं च महावागिश्वरो नृपः । नित्यं तस्य महेशानि महिलासङ्गमं चरेत् ॥४३॥ पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा । शक्तियुक्तो भवेन्मर्त्यः सिद्धो भवति नान्यथा ॥४४॥ ब्रह्मा विष्णुश्च रुद्रश्च ये देवासुरमानुषाः । तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते ॥४५॥ स्वर्गे मर्त्ये च पाताले ये देवाः सिद्धिदायकाः । प्रशंसन्ति सदा सर्वे तं दृष्ट्वा साधकोत्तमम् ॥४६॥ विघ्नात्मकाश्च ये देवाः स्वर्गे मर्त्ये रसातले । प्रशंसन्ति सदा सर्वे तं दृष्ट्वा साधकोत्तमम् ॥४७॥ इति ते कथितं देवि मया सम्यक्प्रकीर्तितम् । भुक्तिमुक्तिकरं साक्षात्कल्पवृक्षस्वरूपकम् ॥४८॥ आसाद्याद्यगुरुं प्रसाद्य य इदं कल्पद्रुमालम्बनं मोहेनापि मदेन वापि रहितो जाड्येन वा युज्यते । सिद्धोऽसौ भुवि सर्वदुःखविपदां पारं प्रयात्यन्तको मित्रं तस्य नृपाश् च देवि विपदो नश्यन्ति तस्याशु च ॥४९॥ तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि वै भुवि । माल्यानि कुसुमन्येव भवन्ति सुखदानि च । तस्य गेहे स्थिरा लक्ष्मीर्वाणी वक्त्रे वसेद् ध्रुवम् ॥५०॥ इदं कवचमज्ञात्वा तारां यो भजते नरः । अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः ॥५१॥ लिखित्वा धारयेद्यस्तु कण्ठे वा मस्तके भुजे । तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ॥५२॥ गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा । यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः ॥५३॥ अष्टम्यां मङ्गलदिने चतुर्द्दश्यामथापि वा । सन्ध्यायां देवदेवेशि लिखेद्यन्त्रं समाहितः ॥५४॥ मघायां श्रवणे वापि रेवत्यां वा विशेषतः । सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे ॥५५॥ मीनराशौ गुरौ याते वृश्चिकस्थे शनैश्चरे । लिखित्वा धारयेद्यस्तु उत्तराभिमुखो भवेत् ॥५६॥ श्मशाने प्रान्तरे वापि शून्यागारे विशेषतः । निशायां वा लिखेन्मन्त्रं तस्य सिद्धिरचञ्चला ॥५७॥ भूर्जपत्रे लिखेन्मन्त्रं गुरुणा च महेश्वरि । ध्यानधारणयोगेन धारयेद्यस्तु भक्तितः ॥५८॥ अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ॥५९॥ ॥ इति श्रीरुद्रयामले तन्त्रे उग्रताराकवचं सम्पूर्णम् ॥